




यद्यत्संद्दश्यते लोके सर्वं तत्कर्मसम्भवम् ।
सर्वां कर्मांनुसारेण जन्तुर्भोगान्भुनक्ति वै ॥

सर्वं परवशं दुःखं सर्वमात्मवशं सुखम्।
एतद् विद्यात् समासेन लक्षणं सुखदुःखयोः ॥

आशाया ये दासास्ते दासाः सर्वलोकस्य ।
आशा येषां दासी तेषां दासायते लोकः ॥



लये संबोधयेत् चित्तं विक्षिप्तं शमयेत् पुनः।
सकशायं विजानीयात् समप्राप्तं न चालयेत् ॥
