
Good Evening
यस्य कृत्यं न विघ्नन्ति शीतमुष्णं भयं रति ।
समृध्दिरसमृद्धिर्वा स वै पण्डित उच्यते ॥

यस्य कृत्यं न विघ्नन्ति शीतमुष्णं भयं रति ।
समृध्दिरसमृद्धिर्वा स वै पण्डित उच्यते ॥

यथा चित्तं तथा वाचो यथा वाचस्तथा क्रिया ।
चित्ते वाचि क्रियायां च साधूनामेकरूपता ॥



चित्ते प्रसन्ने भुवनं प्रसन्नं चित्ते विषण्णे भुवनं विषण्णम् ।


भद्रं भद्रं कृतं मौनं कोकिलैर्जलदागमे ।
दर्दूराः यत्र वक्तारः तत्र मौनं हि शोभते ॥


क्रोधाद्भवति सम्मोहः सम्मोहात्स्मृतिविभ्रमः।
स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात्प्रणश्यति॥

न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते।
न च संन्यसनादेव सिद्धिं समधिगच्छति॥